(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

सभापर्व ~ महाभारत | Mahabharat Sabha Parv In Hindi


॥ श्रीः ॥
2.99. अध्यायः 099
Mahabharata - Sabha Parva - Chapter Topics
वनाय प्रस्थितान्पाण्डवान्प्रति दुश्शासनकृतापहासः॥1॥ पाण्डवानां बहुप्रतिज्ञाकरणपूर्वकं धृतराष्ट्रसमीपगमनम्॥ 2॥
Mahabharata - Sabha Parva - Chapter Text

वैशम्पायन उवाच॥

ततः पराजिताः पार्था वनावासाय दीक्षिताः।
अजिनान्युत्तरीयाणि जगृहुश्च यथाक्रमम्॥ 2-99-1(15390)
अजिनैः संवृतान्दृष्ट्वा हृतराज्यानरिन्दमान्।
प्रस्थितान्वनवासाय ततो दुःशासनोऽब्रवीत्॥ 2-99-2(15391)
प्रवृत्तं धार्तराष्ट्रस्य चक्रं राज्ञो महात्मनः।
पराजिताः पाण्डवेया विपत्तिं परमां गताः॥ 2-99-3(15392)
अद्य देवाः सम्प्रयाताः समैर्वर्त्मभिरस्थलैः।
गुणज्येष्ठास्तथा श्रेष्ठाः श्रेयांसो यद्वयं परैः॥ 2-99-4(15393)
नरकं पातिताः पार्था दीर्घकालमनन्तकम्।
मुखाच्च हीना राज्याच्च विनष्टाः शाश्वतीः समाः॥ 2-99-5(15394)
धनेन मत्ता ये ते स्म धार्तराष्ट्रान्प्रहासिषुः।
ते निर्जिता हृतधना वनमेष्यन्ति पाण्डवः॥ 2-99-6(15395)
चित्रान्सन्नाहानवमुञ्चन्तु चैषां
वासांसि दिव्यानि च भानुमन्ति॥
विवास्यन्तां रुरुचर्माणि सर्वे
यथा ग्लहं सौबलस्याभ्युपेताः॥ 2-99-7(15396)
न सन्ति लोकेषु पुमांस ईदृशा
इत्येव ये भावितबुद्धयः सदा।
ज्ञास्यन्ति तेत्मानमिमेऽद्य पाण्डवा
विपर्यये पाण्ढतिला इवाफलाः॥ 2-99-8(15397)
इदं हि वासो यदि वेदृशानां
मनस्विनां रौरवमाहवेषु॥
आदीक्षितानामजिनानि यद्व-
द्वलीयसां पश्यत पाण्डवानाम्॥ 2-99-9(15398)
महाप्राज्ञः सौमकिर्यज्ञसेनः
कन्यां पाञ्चालीं पाण्डवेभ्यः प्रदाय।
अकार्षिद्वै सुकृतं नेह किञ्चित्
क्लीबाः पार्थाः पतयो याज्ञसेन्याः॥ 2-99-10(15399)
सूक्ष्मप्रावारानजिनोत्तरीयान्
दृष्ट्वाऽरण्ये निर्धनानप्रतिष्ठान्।
कां त्वं प्रीतिं लप्स्यसे याज्ञसेनि
पतिं वृणीष्वेह यमन्यमिच्छसि॥ 2-99-11(15400)
एते हि सर्वे कुरवः समेताः
क्षान्ता दान्ताः सुद्रविणोपपन्नाः।
एषां वृणीष्वैकतमं पतित्वे
न त्वां नयेत्कालविपर्ययोऽयम्॥ 2-99-12(15401)
यथाऽफलाः षण्ढतिला यथा चर्ममया मृगाः।
तथैव पाण्डवाः सर्वे यथा काकयवा अपि॥ 2-99-13(15402)
किं पाण्डवांस्ते पतितानुपास्य
मोघः श्रमः षण्ढतिलानुपास्य।
एवं नृशंसः परुषाणि पार्था-
नश्रावयद्धृतराष्ट्रस्य पुत्रः॥ 2-99-14(15403)
तद्वै श्रुत्वा भीमसेनोऽत्यमर्षी
निर्भर्त्स्योच्चैः सन्निगृह्यैव रोषात्।
उवाच चैनं सहसैवोपगम्य
सिंहो यथा हैमवतः शृगालम्॥ 2-99-15(15404)
भीमसेन उवाच॥ 2-99-16x(1717)
क्रूर पापजनैर्जुष्टमकृतार्थं प्रभाषसे।
गान्धारविद्यया हि त्वं राजमध्ये विकत्थसे॥ 2-99-16(15405)
यथा तुदसि मर्माणि वाक्छरैरिह नो भृशम्।
तथा स्मारयिता तेऽहं कृन्तन्मर्माणि संयुगे॥ 2-99-17(15406)
ये च त्वामनुवर्तन्ते क्रोधलोभवशानुगाः।
गोप्तारः सानुबन्धांस्तान्नेताऽस्मि यमसादनम्॥ 2-99-18(15407)
वैशम्पायन उवाच॥ 2-99-19x(1718)
एवं ब्रुवाणमजिनैर्विवासितं
दुःशासनस्तं परिनृत्यति स्म।
मध्ये कुरूणां धर्मनिबद्धमार्गं
गौर्गौरिति स्माह्वयन्मुक्तलज्जः॥ 2-99-19(15408)
भीमसेन उवाच॥ 2-99-20x(1719)
नृशंस परुषं वक्तुं दुःशासन त्वया।
निकृत्या हि धनं लब्ध्वा को विकत्थितुमर्हति॥ 2-99-20(15409)
मैव स्म सुकृतां लोकान्गच्छेत्पार्थो वृकोदरः।
यदि वक्षो हि ते भित्त्वा न पिबेच्छोणितं रणे॥ 2-99-21(15410)
धार्तराष्ट्रान्रणे हत्त्वा मिषतां सर्वधन्विनाम्।
शमं गन्ताऽस्मि नचिरात्सत्यमेतद्ब्रवीमि ते॥ 2-99-22(15411)
वैशम्पायन उवाच॥ 2-99-23x(1720)
तस्य राजा सिंहगतेः सखेलं
दुर्योधनो भीमसेनस्य हर्षात्।
गतिं स्वगत्याऽनुचकार मन्दो
निर्गच्छतां पाण्डवानां सभायाः॥ 2-99-23(15412)
नैतावता कृतमित्यब्रवीत्तं
वृकोदरः सन्निवृत्तार्धकायः।
शीघ्रं हि त्वां निहतं सानुबन्धं
संस्मार्याहं प्रतिवक्ष्यामि मूढ॥ 2-99-24(15413)
एवं समीक्ष्यात्मनि चावमानं
नियम्य मन्युं बलवान्स मानी।
राजानुगः संसदि कौरवाणां
विनिष्कामन्वाक्यमुवाच भीमः॥ 2-99-25(15414)
अहं दुर्योधनं हन्ता कर्णं हन्ता धनञ्जयः।
शकुनिं चाक्षकितवं सहदेवो हनिष्यति॥ 2-99-26(15415)
इदं च भूयो वक्ष्यामि सभामध्ये बृहद्वचः।
सत्यं देवाः करिष्यन्ति यन्नो युद्धं भविष्यति॥ 2-99-27(15416)
सुयोधनमिमं पापं हन्ताऽस्मि गदया युधि।
शिरः पादेन चास्याहमधिष्ठास्यामि भूतले॥ 2-99-28(15417)
वाक्यशूरस्य चैवास्य परुषस्य दुरात्मनः।
दुःशासनस्य रुधिरं पाताऽस्मि मृगराडिव॥ 2-99-29(15418)
अर्जुन उवाच॥ 2-99-30x(1721)
`भीमसेन न ते सन्ति येषां वैरं त्वया त्विह।
मत्ता मृगेषु सुखिनो न बुद्ध्यन्ते महद्भयम्'॥ 2-99-30(15419)
नैवं वाचा व्यवसितं भीम विज्ञायते सताम्।
इतश्चतुर्दशे वर्षे द्रष्टारो यद्भविष्यति॥ 2-99-31(15420)
भीमसेन उवाच॥ 2-99-32x(1722)
दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः।
दुःशासनचतुर्थानां भूमिः पास्यति शोणितम्॥ 2-99-32(15421)
अर्जुन उवाच॥ 2-99-33x(1723)
असूयितारं द्रष्टारं प्रवक्तारं विकत्थनम्।
भीमसेन नियोगात्ते हन्ताहं कर्णमाहवे॥ 2-99-33(15422)
अर्जुनः प्रतिजानीते भीमस्य प्रियकाम्यया।
कर्णं कर्णानुगांश्चैव रणे हन्ताऽस्मि पत्रिभिः॥ 2-99-34(15423)
ये चान्ये प्रतियोत्स्यन्ति बुद्धिमोहेन मां नृपाः।
तांश्च सर्वानहं बाणैर्नेताऽस्मि यमसादनम्॥ 2-99-35(15424)
चलेद्वि हिमवान्स्थानान्निष्प्रभः स्याद्दिवाकरः।
शैत्यं सोमात्प्रणश्येत मत्सत्यं विचलेद्यदि॥ 2-99-36(15425)
न प्रदास्यति चेद्राज्यमितो वर्षे चतुर्दशे।
दुर्योधनोऽभिसत्कृत्य सत्यमेतद्भविष्यति॥ 2-99-37(15426)
वैशम्पायन उवाच॥ 2-99-38x(1724)
इत्युक्तवति पार्थे तु श्रीमान्माद्रवतीसुतः।
प्रगृह्य विपुलं बाहुं सहदेवः प्रतापवान्॥ 2-99-38(15427)
सौबलस्य वधं प्रेप्सुरिदं वचनमब्रवीत्।
क्रोधसंरक्तनयनो निः श्वसन्निव पन्नगः॥ 2-99-39(15428)
सहदेव उवाच॥ 2-99-40x(1725)
अक्षान्यान्मन्यसे मूढ गान्धाराणां यशोहर।
नैतेऽक्षा निशिता बाणास्त्वयैते समरे वृताः॥ 2-99-40(15429)
यथा चैवोक्तवान्भीमस्त्वामुद्दिश्य सबान्धवम्।
कर्ताहं कर्मणस्तस्य कुरु कार्याणि सर्वशः॥ 2-99-41(15430)
हन्ताऽस्मि तरसा युद्धे त्वामेवहे सबान्धवम्।
यदि स्थास्यसि सङ्ग्रामे क्षत्रधर्मेण सौबल॥ 2-99-42(15431)
सहदेववचः श्रुत्वा नकुलोऽपि विशाम्पते।
दर्शनीयतमो नॄणामिदं वचनमब्रवीत्॥ 2-99-43(15432)
सुतेयं यज्ञसेनस्य द्यूतेऽस्मिन्धृतराष्ट्रजैः।
यैर्वाचः श्राविता रूक्षाः स्थितैर्दुर्योधनप्रिये॥ 2-99-44(15433)
तान्धार्तराष्ट्रान्दुर्वृत्तान्मुमूर्षून्कालनोदितान्।
गमयिष्यामि भूयिष्ठानहं वैवस्वतक्षयम्॥ 2-99-45(15434)
`उलूकं च दुरात्मानं सौबलस्य सुतं प्रियम्।
क्रूरं हन्ताऽस्मि समरे तं वै क्रूरं नराधमम्'॥ 2-99-46(15435)
निदेशाद्धर्मराजस्य द्रौपद्याः पदवीं चरन्।
निर्धार्तराष्ट्रां पृथिवीं कर्ताऽस्मि नचिरादिव॥ 2-99-47(15436)
वैशम्पायन उवाच॥ 2-99-48x(1726)
एवं ते पुरुषव्याघ्राः सर्वे व्यायतबाहवः।
प्रतिज्ञा बहुलाः कृत्वा धृतराष्ट्रमुपागमन्॥ ॥ 2-99-48(15437)

इति श्रीमन्महाभारते सभापर्वणि अनुद्यूतपर्वणि एकोनशततमोऽध्यायः॥ 99 ॥

Mahabharata - Sabha Parva - Chapter Footnotes
2-99-13 काकयवा निस्तण्डुलं तृणधान्यम्॥ 2-99-17 स्मरयिता स्मारयिष्यामि ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.